श्री लक्ष्मी कवचम्
शुकं प्रति ब्रह्मोवाच महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतां अखिलेप्सितदायकम् ॥ ३॥ सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४॥ धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५॥ क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे । तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् […]
श्री लक्ष्मी कवचम् Read More »